छन्दसि विषये इवर्णान्ताद् रेफान्ताच् च उत्तरस्य मतोर्वत्त्वं भवति। इवर्णान्तात् तावत् त्रिवती याज्यानुवाक्या भवति। हरिवो मेदिनं त्वा। अधिपतिवती जुहोति चरुरग्निवानिव। आ रेवानेतु मा विशत्। रयेर्मतौ इति सम्प्रसारणम्। सरस्वतीवान् भारतीवान्। दधीवांश्चरुः। छन्दसि सर्वे विधयो विकल्प्यन्ते इति इह न भवति, सप्तर्षिमन्तम्, ऋषिमान्, ऋतीमान्, सूर्यं ते द्यावापृथिवीमन्तम् इति। रेफान्तात् गीर्वान्। धूर्वान्। आशीर्वान्।
"हरिवो मेदिनम्()" इति। "न मु ने"
८।२।३ इत्यत्रैतद्व्युत्पादितम्()। "आरेवानेतु मा विशत्()" इति। रयिशब्दस्य "रयेर्मतौ बहुलम्()" (दा।६६५) इति सम्प्रसारणम्(), परपूर्वत्वम्(), "आद्गुणः"
६।१।८४।
अथेह कस्मान्न भवति--सप्तर्षिमन्तं द्यावापृथिवीमन्तम्()? इत्याह--द्यौश्च पृथिवी चेति द्वन्द्वे कृते "दिवसश्च पृथिव्याम्()"
६।३।२९ इति दिवो द्यावादेशः।
"गोर्वान्(), धूर्वान्(), आशीर्वान्()" इति।
"गृ? शब्दे" (धा।पा।१४९८), "धुर्वी हिंसार्थः (धा।पा।५७३), "आङ शासु श्च्छायाम्()" (धा।पा।१०२२),
एषां सम्पदादित्वात्? क्विप्()। गृणातेः "ऋत इद्धातोः"
७।१।१०० इतीत्त्वम्(), धुर्वेः "राल्लोपः"
६।४।२१ इति वकारलोपः, "शास इदङ्हलोः"
६।४।३४, इत्यत्र शास इत्त्वे "आशासः क्वावुपसंख्यानम्()" (वा।७८१) इत्याङ्पूर्वस्य शास इत्त्वम्(), मतुपि कृते "ससजुवो रुः"
८।२।६६ इति रुत्वम्()॥